Total Pageviews

Sunday 13 May 2012


SREE RAAGHAVAASHTAKAM


राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते॥१॥

राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनं।
वालिसूनुभृदीक्षणम् हनुमत्प्रियं कमलेक्षणं
यातुधानभयङ्करं प्रणमामि राघव कुञ्जरं॥२

मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुंगवं मम दैवतं।
मेदिनीतनयामुखांबुजबोधकारिदिवाकरं
सूर्यवंशविवर्द्धनं प्रणमामि राघवकुञ्जरं॥३।

हेमकुण्डलमण्डितामलगण्डदेशमरिन्दमं
शातकुम्भमयूरनेत्रविभूषणेन विभूषितं।
चारुनूपुरहारकौस्तुभकर्ण्णभूषणभूषितं
भानुवंशविवर्द्धनं प्रणमामि राघवकुञ्जरं॥४॥

दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं
शिष्ठपालनतत्परं धृतिशालिवालिकृतस्तुतिं।
कुंभकर्ण्णभुजाभुजंगविकर्त्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरं॥५॥

केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसं।
देवदेवमशेषभूतमनोहरं जगतां पतिं
दासभूतजनावनं प्रणमामि राघवकुञ्जरं॥६॥

यागदानसमाधिहोमजपादिकर्म्मकरैर्द्विजैः
वेदपारगतैरहर्न्निशमादरेण सुपूजितं।
ताटकावधधीरमङ्गदनाथवालिनिषूदनं।
पैतृकोदितपालकं प्रणमामि राघवकुजरं॥७॥

लीलयाखरदूषणादिनिशाचरासुविनाशिनं
रावणान्तकमच्युतं हरियूथकोटिसमावृतं।
नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं
देवकार्यविचक्षनं प्रणमामि राघवकुञ्जरं॥८॥

कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनं।
वासवादिसुरारिरावणशासनं च परां गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरं॥९॥

राघवाष्टकमिष्टसिद्धिदमच्युतालयसाधकम्
भक्तिमुक्तिफलप्रदं धनधान्यपुत्रविवर्द्धनं।
रामचन्द्रकृपाकटाक्षदमादरेण सदा पठेत्
रामचन्द्रपदाम्बुजद्वयसन्ततार्पित मानसः॥१०

निगमसरसिरत्नं नित्यमासक्तरत्नं
निखिलसुकृतिरत्नं जानकीरूपरत्नं।
भुवनवलयरत्नं भूभृतामेकरत्नं
प्रकृतिसुलभरत्नं मैथिलीप्राणरत्नं॥११
॥इति श्री राघवाष्टकं॥

 

No comments:

Post a Comment